International forum




Notices

Reply
 
LinkBack Thread Tools Display Modes
Old 10-21-2007, 01:07 PM   #8 (permalink)
Junior Member
 
kola's Avatar
 
Join Date: Sep 2007
Posts: 5
kola is an unknown character at this point kola is an unknown character at this point
Default

Quote:
Originally Posted by satyanarayan View Post
कोला, आपसे सम्पर्क होने से मुझे बहुत प्रसन्नता हुई । आप हिन्दी में प्रवीण हैं। आपको तीनों भाषाओं में व्याकरण पढाया जा सकता है और मैं आपको यथासंभव सहायता दूँगा। आपने मेरा संस्कृत संदेश पढ ही लिया है और समझ भी लिया होगा । मैं व्यवस्थित ढंग से व्याकरण पढाना चाहता हूँ ।
सत्यनारायण, मेरे पास व्याकरण की कोई किताब नहीं है, और यहाँ मिलनी भी दुष्कर ही हैं । मैं अमेरिका में रहता हूँ, इसलिये आपके सुझाव से किसी से मँगवानी पड़ेंगी । मेरे दो मित्र इनदिनों दिल्ली गये हुये हैं, वो किताबें ला सकते हैं । आप ऐसी किताबें बतायें जो दिल्ली में मिल सकें ।
(Offline)   Reply With Quote
Old 10-25-2007, 12:49 PM   #9 (permalink)
International Forum Fan
 
satyanarayan's Avatar
 
Join Date: Aug 2007
Location: India
Posts: 312
satyanarayan came out of the blue satyanarayan came out of the blue
Default

Quote:
Originally Posted by kola View Post
सत्यनारायण, मेरे पास व्याकरण की कोई किताब नहीं है, और यहाँ मिलनी भी दुष्कर ही हैं । मैं अमेरिका में रहता हूँ, इसलिये आपके सुझाव से किसी से मँगवानी पड़ेंगी । मेरे दो मित्र इनदिनों दिल्ली गये हुये हैं, वो किताबें ला सकते हैं । आप ऐसी किताबें बतायें जो दिल्ली में मिल सकें ।
kola, Please visit www.taralabalu.org(<klick here) .And download full software. Or buy अष्टाध्यायीसूत्रपाठः,अष्टाध्यायी (भाष्य)-ब्रह्मदत्त जिज्ञासु। काशिकावृत्तिः, हिन्दी में-लघुसिद्धान्तकौमुदी- भैमीव्याख्या-भीमसेन शास्त्री। कृपया स्वयं पढने की कोशिश करें । कठिनाई आने पर मुझ से सम्पर्क करें।
__________________
ब्रह्म सत्यं जगन्मिथ्या
(Offline)   Reply With Quote
Old 12-16-2008, 02:20 PM   #10 (permalink)
International Forum Fan
 
B.C.Ramesh's Avatar
 
Join Date: May 2008
Location: south India
Posts: 602
B.C.Ramesh is an unknown character at this point B.C.Ramesh is an unknown character at this point
Default

Quote:
Originally Posted by satyanarayan View Post
all Member Of Sanskrit
पुराकाले अस्माकम् पूर्वजैः यत् व्याकरणं अनायासेनैव गृहीतं तद् कथं अद्य कठिनं सञ्जातम् । विधिवदधययनस्याभावैवात्र कारणमस्ति । पाणिनिना महद्श्रमेण रचिता अष्टाध्यायी अपि अस्माभिः विस्मारिता । पाणिनेः प्रतिभया सर्वे पाश्चात्याः चकिताः । परंतु भारतीयाः छात्राः प्रायः पाणिनि-इति नामापि न जानन्ति । सूत्रार्थस्य विधिरपि तेन तत्रैव प्रकटीकृतः । सः उपेक्षितः विस्मृतश्च अस्माभिः । अतः अष्टाध्यायीसूत्रपाठः कठिनः प्रतीयते । तत्र निरर्थकसूत्राण्यपि सन्ति, तेषाम् परिहारः कर्तुं शक्यते । सूत्रद्वारा अध्ययनं सुकरम् भवति । अतरष्टाध्यायी अस्माभिर्पुनरपि अङ्गीकरणीया । तस्या साध्वी वृत्तिरस्ति काशिका । अस्यामनुवृत्तिः सूत्राणामर्थः प्रयोजनमुद्देश्यमुपयोगश्च साधुः वर्तते । काशिकाद्वारा अध्ययनं रुचिकरम् भवति ।
वर्तमानकाले राजस्थाने सर्वत्र लघुसिद्धान्तकौमुदी अध्याप्यते । तत्रापि उपयोगिसूत्राणि परित्यज्य अध्यापनं कार्य्यते । व्याकरणेन सह साहित्यस्य मिश्रणं वर्तते । अतः व्याख्यातृभिः प्रायः साहित्यमेव पाठ्यते व्याकरणमुपेक्ष्यते । छात्रेभ्यरपि साहित्यमेव रोचते । यः व्याकरणमेव पाठयति तम् छात्राः वारयन्ति । साहित्यम् पाठयतु इति क्रोशन्ति । साहित्यमेव अधीत्य ते परीक्षामुत्तरन्ति । मया तु इयम् बाधा सर्वदैव सोढा । परीक्षायां विकल्पेन प्रश्नाः भवन्ति । रटनेनैव उत्तराणि साधूनि कर्तुं शक्यन्ते । विधिवदध्ययनमत्रानावश्यकम् । असंबद्धतैव समस्याकारणमस्ति । पूर्वसूत्राण्यनधीत्य उत्तराणामध्ययनमनुचितमेवास्ति । कृतभूरिश्रमाः छात्रास्तु परीक्षायां यथातथं लेखितुं समर्थाः अशीतिप्रतिशताङ्कानर्जयितुमर्हन्ति । परन्तु लेखने भाषणे वा एकवाक्यमपि प्रयोक्तुं न शक्नुवन्ति । तेषाञ्ज्ञानं तु सर्वदा अपूर्णमनुपयोगि चैव भवति । अतः सर्वकारस्य प्रयोजनं न सिध्यति । राजकोषस्य असदुपयोगोऽयम् ।
अतः व्याकरणस्य एकं प्रश्नपत्रं साहित्यरहितं स्यात् । प्राचीनाचार्यैः लिखितारनेकशः व्याकरणग्रन्थाः सन्ति । त एव छात्रेभ्यः हिताः , अस्माभिरनुपेक्षणीयाः । शिक्षापद्धतिनिहितदोषनिराकरणाय तेषामुपादानमावश्यकम् । ते सन्ति – अष्टाध्यायी , काशिका ,अमरकोषः, धातुपाठः माधवीयाधातुवृत्तिश्च । ते सर्वे सरलभाषया लिखिताः सुबोधाः सन्ति । प्रथमवर्षे अष्टाध्यायी , द्वितीयवर्षे काशिका , तृतीयवर्षे च माधवीयाधातुवृत्तिः अमरकोषश्च । अथवा प्रथमं संज्ञापरिभाषं कृत् मतुबर्थाः भावार्थाः तद्धिताश्च "अङ्गस्याधिकारः" च अध्याप्याः । द्वितीयवर्षे शब्दरूपसिद्धि , तृतीयवर्षे धातुरूपसिद्धि । लघुसिद्धान्तकौमुदी तु सहायकग्रन्थरूपेण स्वीकार्या । सूत्राणां व्याख्या काशिकायां साधु विद्यते , शब्दधातुरूपसिद्ध्यर्थं माधवीयाधातुवृत्तिश्च पर्याप्ता ।
द्वितीयप्रश्नपत्रे साहित्यम् मल्लिनाथादीनाम् संजीवन्यादिटीकया पाठितव्यम् । शास्त्राणि अपि पाठितव्यानि दर्शन-धर्म-विज्ञानविषयकाणि ।
संस्कृतेरध्ययनं स्मृतीणामध्ययनेन , साहित्यस्याध्ययनं सर्वाषां कृतीनामध्ययनेन
स्यात् ।


सत्यनारायणमहोदय,
या स्थिति: भवद्भि: अत्र वर्णिता सा न केवलं राजस्थाने अपितु सर्वत्र भारते स्यात्। विशेषत: जागतीकरणानन्तरं तथा तत्परिणामभूतमिदं इति भाति। तत्पूर्वमपि यद्यपि स्थिति: ईदृशी दुरवस्थाग्रस्ता नासीत् तथापि आशाजनका च नासीत्। अद्यत्वे तु सर्वे भारतेया: द्रव्यामिषपीडीता: सन्ति। भाषादुरवस्था न केवलं संस्कृतस्य। प्राय: हिन्दीभाषां विहाय सर्वासां प्रान्तीयभाषाणां ईदृशी स्थिति। दक्षिणे तत्रापि कर्नाटके दुर्दशा इतोऽपि शोचनीया। यद्यपि प्रौढशालास्तरे भाषात्वेन संस्कृतं चिन्वतां विद्यार्थिनां सङ्ख्या अधिका, तदुत्तरीये स्तरे न्यूनातिन्यूना भवति। कर्नाटकप्रशासनं तु केवलं अधिकाधिककरग्रहणार्थं उत्कोचसम्पादनार्थं च केवलं वैद्यकीय-तान्त्रिकविज्ञानादिविषयान् प्रोत्साहयति। आङ्ग्लादिव्यावसायिकानां भाषाणां प्रोत्साहनं सम्यग्भवति। प्रान्तीयानां भाषाणां आवश्यकता प्राथमिकी इत्यस्य सत्यस्य अवगमनमपि तस्य नास्ति। एतादृश्यां स्थितौ का गति:? किं कुर्म:? कान् निन्दाम:?
__________________
"Co-author : http://freetranslationblog.blogspot.com/
(Offline)   Reply With Quote
Old 11-15-2009, 05:18 PM   #11 (permalink)
Member
 
bonbon rose's Avatar
 
Join Date: Nov 2009
Posts: 66
bonbon rose is just really nice bonbon rose is just really nicebonbon rose is just really nice bonbon rose is just really nice
Send a message via MSN to bonbon rose
Default

!!!!!!!!!!!!!!!!! j'ai rien compris<<lol
I didn't understand (anything)??!!??
(Offline)   Reply With Quote
Reply

Thread Tools
Display Modes

Posting Rules
You may not post new threads
You may not post replies
You may not post attachments
You may not edit your posts

BB code is On
Smilies are On
[IMG] code is On
HTML code is Off
Trackbacks are On
Pingbacks are On
Refbacks are On


Leçons langues indiennes, Indian languages lessons : The international discussion forum : संस्कृत शिक्षणम्

Powered by vBulletin® Version 3.8.0
Copyright ©2000 - 2009, Jelsoft Enterprises Ltd.
SEO by vBSEO 3.2.0 RC5 - vBulletin Skin developed by: vBStyles.com
International forum : traduction - translation - übersetzung
| acheter fleurs || Mignonne || Un parfum de liberté || Ambiance parfum || Medecine Forum || Le parfum de la vie || Forum dyskusyjne po polsku |

magazine internet || piscine référence || un conseiller AFER || Une agence de traduction, eine Übersetzungsagentur : Traduction allemand Französisch Übersetzung - Agence Traduction allemand