संस्कृत शिक्षणम्
All member of sanskrit
पुराकाले अस्माकम् पूर्वजैः यत् व्याकरणं अनायासेनैव गृहीतं तद् कथं अद्य कठिनं सञ्जातम् । विधिवदधययनस्याभावैवात्र कारणमस्ति । पाणिनिना महद्श्रमेण रचिता अष्टाध्यायी अपि अस्माभिः विस्मारिता । पाणिनेः प्रतिभया सर्वे पाश्चात्याः चकिताः । परंतु भारतीयाः छात्राः प्रायः पाणिनि-इति नामापि न जानन्ति । सूत्रार्थस्य विधिरपि तेन तत्रैव प्रकटीकृतः । सः उपेक्षितः विस्मृतश्च अस्माभिः । अतः अष्टाध्यायीसूत्रपाठः कठिनः प्रतीयते । तत्र निरर्थकसूत्राण्यपि सन्ति, तेषाम् परिहारः कर्तुं शक्यते । सूत्रद्वारा अध्ययनं सुकरम् भवति । अतरष्टाध्यायी अस्माभिर्पुनरपि अङ्गीकरणीया । तस्या साध्वी वृत्तिरस्ति काशिका । अस्यामनुवृत्तिः सूत्राणामर्थः प्रयोजनमुद्देश्यमुपयोगश्च साधुः वर्तते । काशिकाद्वारा अध्ययनं रुचिकरम् भवति ।
वर्तमानकाले राजस्थाने सर्वत्र लघुसिद्धान्तकौमुदी अध्याप्यते । तत्रापि उपयोगिसूत्राणि परित्यज्य अध्यापनं कार्य्यते । व्याकरणेन सह साहित्यस्य मिश्रणं वर्तते । अतः व्याख्यातृभिः प्रायः साहित्यमेव पाठ्यते व्याकरणमुपेक्ष्यते । छात्रेभ्यरपि साहित्यमेव रोचते । यः व्याकरणमेव पाठयति तम् छात्राः वारयन्ति । साहित्यम् पाठयतु इति क्रोशन्ति । साहित्यमेव अधीत्य ते परीक्षामुत्तरन्ति । मया तु इयम् बाधा सर्वदैव सोढा । परीक्षायां विकल्पेन प्रश्नाः भवन्ति । रटनेनैव उत्तराणि साधूनि कर्तुं शक्यन्ते । विधिवदध्ययनमत्रानावश्यकम् । असंबद्धतैव समस्याकारणमस्ति । पूर्वसूत्राण्यनधीत्य उत्तराणामध्ययनमनुचितमेवास्ति । कृतभूरिश्रमाः छात्रास्तु परीक्षायां यथातथं लेखितुं समर्थाः अशीतिप्रतिशताङ्कानर्जयितुमर्हन्ति । परन्तु लेखने भाषणे वा एकवाक्यमपि प्रयोक्तुं न शक्नुवन्ति । तेषाञ्ज्ञानं तु सर्वदा अपूर्णमनुपयोगि चैव भवति । अतः सर्वकारस्य प्रयोजनं न सिध्यति । राजकोषस्य असदुपयोगोऽयम् ।
अतः व्याकरणस्य एकं प्रश्नपत्रं साहित्यरहितं स्यात् । प्राचीनाचार्यैः लिखितारनेकशः व्याकरणग्रन्थाः सन्ति । त एव छात्रेभ्यः हिताः , अस्माभिरनुपेक्षणीयाः । शिक्षापद्धतिनिहितदोषनिराकरणाय तेषामुपादानमावश्यकम् । ते सन्ति – अष्टाध्यायी , काशिका ,अमरकोषः, धातुपाठः माधवीयाधातुवृत्तिश्च । ते सर्वे सरलभाषया लिखिताः सुबोधाः सन्ति । प्रथमवर्षे अष्टाध्यायी , द्वितीयवर्षे काशिका , तृतीयवर्षे च माधवीयाधातुवृत्तिः अमरकोषश्च । अथवा प्रथमं संज्ञापरिभाषं कृत् मतुबर्थाः भावार्थाः तद्धिताश्च "अङ्गस्याधिकारः" च अध्याप्याः । द्वितीयवर्षे शब्दरूपसिद्धि , तृतीयवर्षे धातुरूपसिद्धि । लघुसिद्धान्तकौमुदी तु सहायकग्रन्थरूपेण स्वीकार्या । सूत्राणां व्याख्या काशिकायां साधु विद्यते , शब्दधातुरूपसिद्ध्यर्थं माधवीयाधातुवृत्तिश्च पर्याप्ता ।
द्वितीयप्रश्नपत्रे साहित्यम् मल्लिनाथादीनाम् संजीवन्यादिटीकया पाठितव्यम् । शास्त्राणि अपि पाठितव्यानि दर्शन-धर्म-विज्ञानविषयकाणि ।
संस्कृतेरध्ययनं स्मृतीणामध्ययनेन , साहित्यस्याध्ययनं सर्वाषां कृतीनामध्ययनेन स्यात् ।
|